|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.29. अध्यायः 029
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
गरुडेन कद्रूंप्रत्यमृतानयनकथनम्॥ 1 ॥ कद्र्वा विनताया दास्यान्मोचनम्॥ 2 ॥ गरुडेन पुनरिन्द्रायामृतप्रत्यर्पणम्॥ 3 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`भीष्म उवाच।
ततो व्रज्रं सहस्राक्षो दृष्ट्वा सक्तं वरायुधम्।
ऋषींश्च दृष्ट्वा सहसा सुपर्णमिदमब्रवीत्॥ 13-29-1(81987)
न ते सुपर्ण पश्यामि प्रभावं तेन योधये।
इत्युक्ते न मया रक्षा शक्या कर्तुमतोऽन्यथा।
इदं वज्रं मया सार्धं निवृत्तं हि यथागतम्॥ 13-29-2(81988)
ततः सहस्रनयने निवृत्ते गरुडस्तथा।
कद्रूमभ्यगमत्तूर्णममृतं गृह्य भारतः॥ 13-29-3(81989)
गरुड उवाच। 13-29-4x(6809)
तदाहृतं मया शीघ्रममृतं जननीकृते।
अदासी सा भवत्वद्य विनता धर्मिचारिणी॥ 13-29-4(81990)
कद्रूरुवाच। 13-29-5x(6810)
स्वागतं स्वाहृतं चेदममृतं विनतात्मज।
अदासी जननी तेऽद्य पुत्र कामवशा शुभा। 13-29-5(81991)
एवमुक्ते तदा सा च सम्प्राप्ता विनता गृहम्॥
उपनीय यथान्यायं विहगो बलिनांवरः। 13-29-6(81992)
स्मृत्वा निकृत्या विजयं मातुः सम्प्रतिपद्य च॥
वधं च भुजगेन्द्राणां ये वालास्तस्य वाजिनः। 13-29-7(81993)
बभूवुरसितप्रख्या निकृत्या वै जितं त्वया॥
तामुवाच ततो न्याय्यं विहगो बलिनांवरः। 13-29-8(81994)
उञ्जहारामृतं तूर्णमुत्पपात च रंहसा॥
तद्गृहीत्वाऽमृतं तूर्णं प्रयान्तमपराजितम्। 13-29-9(81995)
किमर्थं वैनतेय त्वमाहृत्यामृतमुत्तमम्।
पुनर्हरति दुर्बुद्धे मा जातु वृजितं कृथाः॥ 13-29-10(81996)
सुपर्णि उवाच। 13-29-11x(6811)
अमृताहरणं मेऽद्य यत्कृतं जननीकृते।
भवत्या वचनादेतदाहरामृतमित्युत॥ 13-29-11(81997)
आहृतं तदिदं शीघ्रं मुक्ता च जननी मम।
हराम्येष पुनस्तत्र यत एतन्मयाऽऽहृतम्॥ 13-29-12(81998)
यदि मां भवती ब्रूयादमृतं मे च दीयताम्।
तथा कुर्यां न वा कुर्यां न हि त्वममृतक्षमा।
मया धर्मेण सत्येन विनता च समुद्धृता॥ 13-29-13(81999)
भीष्म उवाच। 13-29-14x(6812)
ततो गत्वाऽथ गरुडः पुरन्दरमुवाच ह।
इदं मया वृत्रहन्तर्हृतं तेऽमृतमुत्तमम्।
मात्रर्थे हि तथैवेदं गृहाणामृतमाहृतम्॥ 13-29-14(82000)
माता च मम देवेश दासीत्वमुपजग्मुषी।
भुजङ्गमानां मातुर्वै सा मुक्ताऽमृतदर्शनात्॥ 13-29-15(82001)
एतच्छ्रुत्वा सहस्राक्षः सुपर्णमनुमन्यते।
उवाच च मुदा युक्तो दिष्ट्यादिष्ट्येति वासवः॥ 13-29-16(82002)
क्रषयो ये सहस्राक्षमुपासन्ति सुरैः सह।
ते सर्वे च मुदा युक्ता विश्वेदेवास्तथैव च॥ 13-29-17(82003)
ततस्तमृषयः सर्वे देवाश्च भरतर्षभ।
ऊचुः पुरन्दरं दृष्टा गरुडो लभतां वरम्॥ 13-29-18(82004)
ततः शचीपतिर्वाक्यमुवाच प्रहसन्निव।
जनिष्यति हृषीकेशः स्वयमेवैष पक्षिराट्॥ 13-29-19(82005)
केशवः पुण्डरीकाक्षः शूरपुत्रस्य वेश्मनि।
स्वयं धर्मस्य रक्षार्थं विभज्य भुजगाशनः॥ 13-29-20(82006)
एष ते पाण्डवश्रेष्ठ गरुडोऽथ पतत्रिराट्।
सुपर्णो वैनतेयश्च कीर्तितो भद्रमस्तु ते॥ 13-29-21(82007)
तदेतद्भरतश्रेष्ठ मयाऽऽख्यानं प्रकीर्तितम्।
सुपर्णस्य महाबाहो किं भूयः कथयामि ते॥' ॥ 13-29-22(82008)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशोऽध्यायः॥ 29 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-29-1 जितं त्वयेति तां कद्रूमुवाचेत्युत्तरेण सम्बन्धः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|